Arthashastra. Book 7, Chapter 9: Marching against the stronger. The calculus of attacking up

Book 7 · Chapter 9

The End of Sixfold Policy

Marching against the stronger. The calculus of attacking up

संहित-प्रयाणे मित्र-हिरण्य-भूमि-लाभानां उत्तर-उत्तरो लाभः श्रेयान् ।। ०७.९.०१ ।। मित्र-हिरण्ये हि भूमि-लाभाद्भवतः । मित्रं हिरण्य-लाभात् ।। ०७.९.०२ ।। यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति ।। ०७.९.०३ ।। "त्वं चाहं च मित्रं लभावहे" इत्येवं-आदिध्सम-संधिः ।। ०७.९.०४ ।। "त्वं मित्रम्" इत्येवं-आदिर्विषम-संधिः ।। ०७.९.०५ ।। तयोर्विशेष-लाभादतिसंधिः ।। ०७.९.०६ ।। सम-संधौ तु यः सम्पन्नं मित्रं मित्र-कृच्छ्रे वा मित्रं अवाप्नोति सोअतिसंधत्ते ।। ०७.९.०७ ।। आपद्द्हि सौहृद-स्थैर्यं उत्पादयति ।। ०७.९.०८ ।। मित्र-कृच्छ्रेअपि नित्यं अवश्यं अनित्यं वश्यं वाइति "नित्यं अवश्यं श्रेयः । तद्द्हि अनुपकुर्वदपि नापकरोति" इत्याचार्याः ।। ०७.९.०९ ।। नैति कौटिल्यः ।। ०७.९.१० ।। वश्यं अनित्यं श्रेयः ।। ०७.९.११ ।। यावदुपकरोति तावन्मित्रं भवति । उपकार-लक्षणं मित्रं इति ।। ०७.९.१२ ।। वश्ययोरपि महा-भोगं अनित्यं अल्प-भोगं वा नित्यं इति महा-भोगं अनित्यं श्रेयः । महा-भोगं अनित्यं अल्प-कालेन महद्-उपकुर्वन्महान्ति व्यय-स्थानानि प्रतिकरोति" इत्याचार्याः ।। ०७.९.१३ ।। नैति कौटिल्यः ।। ०७.९.१४ ।। नित्यं अल्प-भोगं श्रेयः ।। ०७.९.१५ ।। महा-भोगं अनित्यं उपकार-भयादपक्रामति । उपकृत्य वा प्रत्यादातुं ईहते ।। ०७.९.१६ ।। नित्यं अल्प-भोगं सातत्यादल्पं उपकुर्वन्महता कालेन महदुपकरोति ।। ०७.९.१७ ।। गुरु-समुत्थं महन्मित्रं लघु-समुत्थं अल्पं वाइति "गुरु-समुत्थं महन्मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ।। ०७.९.१८ ।। नैति कौटिल्यः ।। ०७.९.१९ ।। लघु-समुत्थं अल्पं श्रेयः ।। ०७.९.२० ।। लगु-समुत्थं अल्पं मित्रं कार्य-कालं नातिपातयति दौर्बल्याच्च यथा-इष्ट-भोग्यं भवति । नैतरत्प्रकृष्ट-भौमं ।। ०७.९.२१ ।। विक्षिप्त-सैन्यं अवश्य-सैन्यं वाइति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्याचार्याः ।। ०७.९.२२ ।। नैति कौटिल्यः ।। ०७.९.२३ ।। अवश्य-सैन्यं श्रेयः ।। ०७.९.२४ ।। अवश्यं हि शक्यं साम-आदिभिर्वश्यं कर्तुम् । नैतरत्कार्य-व्यासक्तं प्रतिसंहर्तुं ।। ०७.९.२५ ।। पुरुष-भोगं हिरण्य-भोगं वा मित्रं इति "पुरुष-भोगं मित्रं श्रेयः । प्रुष-भोगं मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ।। ०७.९.२६ ।। नैति कौटिल्यः ।। ०७.९.२७ ।। हिरण्य-भोगं मित्रं श्रेयः ।। ०७.९.२८ ।। नित्यो हि हिरण्येन योगः कदाचिद्दण्डेन ।। ०७.९.२९ ।। दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति ।। ०७.९.३० ।। हिरण्य-भोगं भूमि-भोगं वा मित्रं इति "हिरण्य-भोगं गतिमत्त्वात्सर्व-व्यय-प्रतीकार-करम्" इत्याचार्याः ।। ०७.९.३१ ।। नैति कौटिल्यः ।। ०७.९.३२ ।। मित्र-हिरण्ये हि भूमि-लाभाद्भवत इत्युक्तं पुरस्ताड ।। ०७.९.३३ ।। तस्माद्भूमि-भोगं मित्रं श्रेय इति ।। ०७.९.३४ ।। तुल्ये पुरुष-भोगे विक्रमः क्लेश-सहत्वं अनुरागः सर्व-बल-लाभो वा मित्र-कुलाद्विशेषः ।। ०७.९.३५ ।। तुल्ये हिरण्य-भोगे प्रार्थित-अर्थता प्राभूत्यं अल्प-प्रयसता सातत्यं च विशेषः ।। ०७.९.३६ ।। तत्रएतद्भवति ।। ०७.९.३७ ।। नित्यं वश्यं लघु-उत्थानं पितृ-पैतामहं महत् । ।। ०७.९.३८अ ब ।। अद्वैध्यं चैति सम्पन्नं मित्रं षड्-गुणं उच्यते ।। ०७.९.३८च्द् ।। ऋते यदर्थं प्रणयाद्रक्ष्यते यच्च रक्षति । ।। ०७.९.३९अ ब ।। पूर्व-उपचित-सम्बन्धं तन्मित्रं नित्यं उच्यते ।। ०७.९.३९च्द् ।। सर्व-चित्र-महा-भोगं त्रिविधं वश्यं उच्यते । ।। ०७.९.४०अ ब ।। एकतो-भोग्युभयतः सर्वतो-भोगि चापरं ।। ०७.९.४०च्द् ।। आदातृ वा दात्र्-अपि वा जीवत्यरिषु हिंसया । ।। ०७.९.४१अ ब ।। मित्रं नित्यं अवश्यं तद्-दुर्ग-अटव्य्-अपसारि च ।। ०७.९.४१च्द् ।। अन्यतो विगृहीतं यल्लघु-व्यसनं एव वा । ।। ०७.९.४२अ ब ।। संधत्ते चौपकाराय तन्मित्रं वश्यं अध्रुवं ।। ०७.९.४२च्द् ।। एक-अर्थेनाथ सम्बद्धं उपकार्य-विकारि च । ।। ०७.९.४३अ ब ।। मित्र-भावि भवत्येतन्मित्रं अद्वैध्यं आपदि ।। ०७.९.४३च्द् ।। मित्र-भावाद्ध्रुवं मित्रं शत्रु-साधारणाच्चलं । ।। ०७.९.४४अ ब ।। न कस्यचिदुदासीनं द्वयोरुभय-भावि तत् ।। ०७.९.४४च्द् ।। विजिगीषोरमित्रं यन्मित्रं अन्तर्धितां गतं । ।। ०७.९.४५अ ब ।। उपकारेअनिविष्टं वाअशक्तं वाअनुपकारि तत् ।। ०७.९.४५च्द् ।। प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धं एव वा । ।। ०७.९.४६अ ब ।। अनुगृह्णाति यन्मित्रं शत्रु-साधारणं हि तत् ।। ०७.९.४६च्द् ।। प्रकृष्ट-भौमं संतुष्टं बलवच्चऽलसं च यत् । ।। ०७.९.४७अ ब ।। उदासीनं भवत्येतद्व्यसनादवमानितं ।। ०७.९.४७च्द् ।। अरेर्नेतुश्च यद्वृद्धिं दौर्बल्यादनुवर्तते । ।। ०७.९.४८अ ब ।। उभयस्याप्यविद्विष्टं विद्यादुभय-भावि तत् ।। ०७.९.४८च्द् ।। कारण-अकारण-ध्वस्तं कारण-अकारण-आगतं । ।। ०७.९.४९अ ब ।। यो मित्रं समुपेक्षेत स मृत्युं उपगूहति ।। ०७.९.४९च्द् ।। क्षिप्रं अल्पो लाभश्चिरान्महानिति वा "क्षिप्रं अल्पो लाभः कार्य-देश-काल-संवादकः श्रेयान्" इत्याचार्याः ।। ०७.९.५० ।। नैति कौटिल्यः ।। ०७.९.५१ ।। चिरादविनिपाती बीज-सधर्मा महाम्ल्लाभः श्रेयान् । विपर्यये पूर्वः ।। ०७.९.५२ ।। एवं दृष्ट्वा ध्रुवे लाभे लाभ-अंशे च गुण-उदयं । ।। ०७.९.५३अ ब ।। स्व-अर्थ-सिद्धि-परो यायात्संहितः सामवायिकैः ।। ०७.९.५३च्द् ।।

✦ ✦ ✦

There are hours when the smaller king is right to march on the larger. When the larger is
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.