Arthashastra. Book 8, Chapter 1: Calamities of the king versus calamities of his ministers. Which limb bleeds harder
Book 8 · Chapter 1
Concerning Vices and Calamities
Calamities of the king versus calamities of his ministers. Which limb bleeds harder
व्यसन-यौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वाइति व्यसन-चिन्ता ।। ०८.१.०१ ।। दैवं मानुषं वा प्रकृति-व्यसनं अनय-अपनयाभ्यां सम्भवति ।। ०८.१.०२ ।। गुण-प्रातिलोम्यं अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनं ।। ०८.१.०३ ।। व्यस्यत्येनं श्रेयस इति व्यसनं ।। ०८.१.०४ ।। "स्वाम्य्-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्र-व्यसनानां पूर्वं पूर्वं गरीयः" इत्याचार्याः ।। ०८.१.०५ ।। नैति भरद्वाजः ।। ०८.१.०६ ।। "स्वाम्य्-अमात्य-व्यसनयोरमात्य-व्यसनं गरीयः ।। ०८.१.०७ ।। मन्त्रो मन्त्र-फल-अवाप्तिः कर्म-अनुष्ठानं आय-व्यय-कर्म दण्ड-प्रणयनं अमित्र-अटवी-प्रतिषेधो राज्य-रक्षणं व्यसन-प्रतीकारः कुमार-रक्षणं अभिषेकश्च कुमाराणां आयत्तं अमात्येषु ।। ०८.१.०८ ।। तेषां अभावे तद्-अभावः । छिन्न-पक्षस्यैव राज्ञश्चेष्टा-नाशश्च ।। ०८.१.०९ ।। व्यसनेषु चऽसन्नः पर-उपजापः ।। ०८.१.१० ।। वैगुण्ये च प्राण-आबाधः प्राण-अन्तिक-चरत्वाद्राज्ञः" इति ।। ०८.१.११ ।। नैति कौटिल्यः ।। ०८.१.१२ ।। मन्त्रि-पुरोहित-आदि-भृत्य-वर्गं अध्यक्ष-प्रचारं पुरुष-द्रव्य-प्रकृति-व्यसन-प्रतीकारं एधनं च राजाएव करोति ।। ०८.१.१३ ।। व्यसनिषु वाअमात्येष्वन्यानव्यसनिनः करोति ।। ०८.१.१४ ।। पूज्य-पूजने दूष्य-अवग्रहे च नित्य-युक्तस्तिष्ठति ।। ०८.१.१५ ।। स्वामी च सम्पन्नः स्व-सम्पद्भिः प्रकृतीः सम्पादयति ।। ०८.१.१६ ।। स यत्-शीलस्तत्-शीलाः प्रकृतयो भवन्ति । उत्थाने प्रमादे च तद्-आयत्तत्वात् ।। ०८.१.१७ ।। तत्-कूट-स्थानीयो हि स्वामीइति ।। ०८.१.१८ ।। "अमात्य-जन-पद-व्यसनयोर्जन-पद-व्यसनं गरीयः" इति विशाल-अक्षः ।। ०८.१.१९ ।। "कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जन-पदादुत्तिष्ठन्ते ।। ०८.१.२० ।। तेषां अभावो जन-पद-अभावे । स्वाम्य्-अमात्ययोश्चानन्तरः" इति ।। ०८.१.२१ ।। नैति कौटिल्यः ।। ०८.१.२२ ।। अमात्य-मूलाः सर्व-आरम्भाः जन-पदस्य कर्म-सिद्धयः स्वतः परतश्च योग-क्षेम-साधनं व्यसन-प्रतीकारः शून्य-निवेश-उपचयौ दण्ड-कर-अनुग्रहश्चैति ।। ०८.१.२३ ।। "जन-पद-दुर्ग-व्यसनयोर्दुर्ग-व्यसनम्" इति पाराशराः ।। ०८.१.२४ ।। "दुर्गे हि कोश-दण्ड-उत्पत्तिरापदि स्थानं च जन-पदस्य ।। ०८.१.२५ ।। शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चऽपदि सहाया राज्ञः ।। ०८.१.२६ ।। जानपदास्त्वमित्र-साधारणाः" इति ।। ०८.१.२७ ।। नैति कौटिल्यः ।। ०८.१.२८ ।। जन-पद-मूला दुर्ग-कोश-दण्ड-सेतु-वार्त्ता-आरम्भाः ।। ०८.१.२९ ।। शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु ।। ०८.१.३० ।। पर्वत-अन्तर्-द्वीपाश्च दुर्गा नाध्युष्यन्ते जन-पद-अभावात् ।। ०८.१.३१ ।। कर्षक-प्राये तु दुर्ग-व्यसनम् । आयुधीय-प्राये तु जन-पदे जन-पद-व्यसनं इति ।। ०८.१.३२ ।। "दुर्ग-कोश-व्यसनयोः कोश-व्यसनम्" इति पिशुनः ।। ०८.१.३३ ।। "कोश-मूलो हि दुर्ग-संस्कारो दुर्ग-रक्षणं जन-पद-मित्र-अमित्र-निग्रहो देश-अन्तरितानां उत्साहनं दण्ड-बल-व्यवहारश्च ।। ०८.१.३४ ।। दुर्गः कोशादुपजाप्यः परेषां ।। ०८.१.३५ ।। कोशं आदाय च व्यसने शक्यं अपयातुम् । न दुर्गम्" इति ।। ०८.१.३६ ।। नैति कौटिल्यः ।। ०८.१.३७ ।। दुर्ग-अर्पणः कोशो दण्डस्तूष्णीं-युद्धं स्व-पक्ष-निग्रहो दण्ड-बल-व्यवहार आसार-प्रतिग्रहः पर-चक्र-अटवी-प्रतिषेधश्च ।। ०८.१.३८ ।। दुर्ग-अभावे च कोशः परेषां ।। ०८.१.३९ ।। दृश्यते हि दुर्गवतां अनुच्छित्तिरिति ।। ०८.१.४० ।। "कोश-दण्डव्यसनयोर्दण्ड-व्यसनम्" इति कौणपदन्तः ।। ०८.१.४१ ।। "दण्ड-मूलो हि मित्र-अमित्र-निग्रहः पर-दण्ड-उत्साहनं स्व-दण्ड-प्रतिग्रहश्च ।। ०८.१.४२ ।। दण्ड-अभावे च ध्रुवः कोश-विनाशः ।। ०८.१.४३ ।। कोश-अभावे च शक्यः कुप्येन भूम्या पर-भूमि-स्वयं-ग्राहेण वा दण्डः पिण्डयितुम् । दण्डवता च कोशः ।। ०८.१.४४ ।। स्वामिनश्चऽसन्न-वृत्तित्वादमात्य-सधर्मा दण्डः" इति ।। ०८.१.४५ ।। नैति कौटिल्यः ।। ०८.१.४६ ।। कोश-मूलो हि दण्डः ।। ०८.१.४७ ।। कोश-अभावे दण्डः परं गच्छति । स्वामिनं वा हन्ति ।। ०८.१.४८ ।। सर्व-अभियोग-करश्च कोशो धर्म-काम-हेतुः ।। ०८.१.४९ ।। देश-काल-कार्य-वशेन तु कोश-दण्डयोरन्यतरः प्रमाणी-भवति ।। ०८.१.५० ।। लम्भ-पालनो हि दण्डः कोशस्य । कोशः कोशस्य दण्डस्य च भवति ।। ०८.१.५१ ।। सर्व-द्रव्य-प्रयोजकत्वात्कोश-व्यसनं गरीय इति ।। ०८.१.५२ ।। "दण्ड-मित्र-व्यसनयोर्मित्र-व्यसनम्" इति वातव्याधिः ।। ०८.१.५३ ।। "मित्रं अभृतं व्यवहितं च कर्म करोति । पार्ष्णि-ग्राहं आसारं अमित्रं आटविकं च प्रतिकरोति । कोश-दण्ड-भूमिभिश्चौपकरोति व्यसन-अवस्था-योगम्" इति ।। ०८.१.५४ ।। नैति कौटिल्यः ।। ०८.१.५५ ।। दण्डवतो मित्रं मित्र-भावे तिष्ठति । अमित्रो वा मित्र-भावे ।। ०८.१.५६ ।। दण्ड-मित्रयोस्तु साधारणे कार्ये सारतः स्व-युद्ध-देश-काल-लाभाद्विशेषः ।। ०८.१.५७ ।। शीघ्र-अभियाने त्वमित्र-आटविक-अनभ्यन्तर-कोपे च न मित्रं विद्यते ।। ०८.१.५८ ।। व्यसन-यौगपद्ये पर-वृद्धौ च मित्रं अर्थ-युक्तौ तिष्ठति ।। ०८.१.५९ ।। इति प्रकृति-व्यसन-सम्प्रधारणं उक्तं ।। ०८.१.६० ।। प्रकृत्य्-अवयवानां तु व्यसनस्य विशेषतः । ।। ०८.१.६१अ ब ।। बहु-भावोअनुरागो वा सारो वा कार्य-साधकः ।। ०८.१.६१च्द् ।। द्वयोस्तु व्यसने तुल्ये विशेषो गुणतः क्षयात् । ।। ०८.१.६२अ ब ।। शेष-प्रकृति-साद्गुण्यं यदि स्यान्नाविधेयकं ।। ०८.१.६२च्द् ।। शेष-प्रकृति-नाशस्तु यत्रएक-व्यसनाद्भवेत् । ।। ०८.१.६३अ ब ।। व्यसनं तद्गरीयः स्यात्प्रधानस्यैतरस्य वा ।। ०८.१.६३च्द् ।।
✦ ✦ ✦
“When calamity strikes the king himself, the whole body of the state is paralysed, for the…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.