Arthashastra. Book 8, Chapter 2: Blind king or erring king. The dangerous comparison
Book 8 · Chapter 2
Concerning Vices and Calamities
Blind king or erring king. The dangerous comparison
राजा राज्यं इति प्रकृति-संक्षेपः ।। ०८.२.०१ ।। राज्ञोअभ्यन्तरो बाह्यो वा कोप इति ।। ०८.२.०२ ।। अहि-भयादभ्यन्तरः कोपो बाह्य-कोपात्पापीयान् । अन्तर्-अमात्य-कोपश्चान्तः-कोपात् ।। ०८.२.०३ ।। तस्मात्कोश-दण्ड-शक्तिं आत्म-संस्थां कुर्वीत ।। ०८.२.०४ ।। "द्वैराज्य-वैराज्ययोर्द्वैराज्यं अन्योन्य-पक्ष-द्वेष-अनुरागाभ्यां परस्पर-संघर्षेण वा विनश्यति । वैराज्यं तु प्रकृति-चित्त-ग्रहण-अपेक्षि यथा-स्थितं अन्यैर्भुज्यते" इत्याचार्याः ।। ०८.२.०५ ।। नैति कौटिल्यः ।। ०८.२.०६ ।। पिता-पुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्य-योग-क्षेमं अमात्य-अवग्रहं वर्तयति ।। ०८.२.०७ ।। वैराज्यं तु जीवतः परस्यऽच्छिद्य "नएतन्मम" इति मन्यमानः कर्शयति । अपवाहयति । पण्यं वा करोति । विरक्तं वा परित्यज्यापगच्छतिइति ।। ०८.२.०८ ।। अन्धश्चलित-शास्त्रो वा राजाइति "अशास्त्र-चक्षुरन्धो यत्-किंचन-कारी दृढ-अभिनिवेशी पर-प्रणेयो वा राज्यं अन्यायेनौपहन्ति । चलित-शास्त्रस्तु यत्र शास्त्राच्चलित-मतिर्भवति शक्य-अनुनयो भवति" इत्याचार्याः ।। ०८.२.०९ ।। नैति कौटिल्यः ।। ०८.२.१० ।। अन्धो राजा शक्यते सहाय-सम्पदा यत्र तत्र वा पर्यवस्थापयितुं ।। ०८.२.११ ।। चलित-शास्त्रस्तु शास्त्रादन्यथा-अभिनिविष्ट-बुद्धिरन्यायेन राज्यं आत्मानं चौपहन्तिइति ।। ०८.२.१२ ।। व्याधितो नवो वा राजाइति "व्याधितो राजा राज्य-उपघातं अमात्य-मूलं प्राण-आबाधं वा राज्य-मूलं अवाप्नोति । नवस्तु राजा स्व-धर्म-अनुग्रह-परिहार-दान-मान-कर्मभिः प्रकृति-रञ्जन-उपकारैश्चरति" इत्याचार्याः ।। ०८.२.१३ ।। नैति कौटिल्यः ।। ०८.२.१४ ।। व्याधितो राजा यथा-प्रवृत्तं राज-प्रणिधिं अनुवर्तयति ।। ०८.२.१५ ।। नवस्तु राजा बल-आवर्जितं "ममैदं राज्यम्" इति यथा-इष्टं अनवग्रहश्चरति ।। ०८.२.१६ ।। सामुत्थायिकैरवगृहीतो वा राज्य-उपघातं मर्षयति ।। ०८.२.१७ ।। प्रकृतिष्वरूढः सुखं उच्छेत्तुं भवतिइति ।। ०८.२.१८ ।। व्याधिते विशेषः पाप-रोग्य-पाप-रोगी च ।। ०८.२.१९ ।। नवेअप्यभिजातोअनभिजात इति ।। ०८.२.२० ।। दुर्बलोअभिजातो बलवाननभिजातो राजाइति "दुर्बलस्याभिजातस्यौपजापं दौर्बल्य-अपेक्षाः प्रकृतयः कृच्छ्रेणौपगच्छन्ति । बलवतश्चानभिजातस्य बल-अपेक्षाः सुखेन" इत्याचार्याः ।। ०८.२.२१ ।। नैति कौटिल्यः ।। ०८.२.२२ ।। दुर्बलं अभिजातं प्रकृतयः स्वयं उपनमन्ति । जात्यं ऐश्वर्य-प्रकृतिरनुवर्तत इति ।। ०८.२.२३ ।। बलवतश्चानभिजातस्यौपजापं विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ।। ०८.२.२४ ।। प्रयास-वधात्सस्य-वधो मुष्टि-वधात्पापीयान् । निराजीवत्वादवृष्टिरतिवृष्टितः ।। ०८.२.२५ ।। द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बल-अबलं । ।। ०८.२.२६अ ब ।। पारम्पर्य-क्रमेणौक्तं याने स्थाने च कारणं ।। ०८.२.२६च्द् ।।
✦ ✦ ✦
“The troubles of the king may be either internal or external. Internal troubles are more se…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.