Arthashastra. Book 8, Chapter 3: The four vices born of desire. Hunting, gambling, women, drink
Book 8 · Chapter 3
Concerning Vices and Calamities
The four vices born of desire. Hunting, gambling, women, drink
अविद्या-विनयः पुरुष-व्यसन-हेतुः ।। ०८.३.०१ ।। अविनीतो हि व्यसन-दोषान्न पश्यति ।। ०८.३.०२ ।। तानुपदेक्ष्यामः ।। ०८.३.०३ ।। कोपजस्त्रि-वर्गः । कामजश्चतुर्-वर्गः ।। ०८.३.०४ ।। तयोः कोपो गरीयान् ।। ०८.३.०५ ।। सर्वत्र हि कोपश्चरति ।। ०८.३.०६ ।। प्रायशश्च कोप-वशा राजानः प्रकृति-कोपैर्हताः श्रूयन्ते । काम-वशाः क्षय-निमित्तं अरि-व्याधिभिरिति ।। ०८.३.०७ ।। नैति भारद्वाजः ।। ०८.३.०८ ।। "सत्-पुरुष-आचारः कोपो वैर-यातनं अवज्ञा-वधो भीत-मनुष्यता च ।। ०८.३.०९ ।। नित्यश्च कोपेन सम्बन्धः पाप-प्रतिषेध-अर्थः ।। ०८.३.१० ।। कामः सिद्धि-लाभः सान्त्वं त्याग-शीलता सम्प्रिय-भावश्च ।। ०८.३.११ ।। नित्यश्च कामेन सम्बन्धः कृत-कर्मणः फल-उपभोग-अर्थः" इति ।। ०८.३.१२ ।। नैति कौटिल्यः ।। ०८.३.१३ ।। द्वेष्यता शत्रु-वेदनं दुःख-आसङ्गश्च कोपः ।। ०८.३.१४ ।। परिभवो द्रव्य-नाशः पाटच्चर-द्यूतकार-लुब्धक-गायन-वादकैश्चानर्थ्यैः सम्योगः कामः ।। ०८.३.१५ ।। तयोः परिभवाद्द्वेष्यता गरीयसी ।। ०८.३.१६ ।। परिभूतः स्वैः परैश्चावगृह्यते । द्वेष्यः समुच्छिद्यत इति ।। ०८.३.१७ ।। द्रव्य-नाशात्शत्रु-वेदनं गरीयः ।। ०८.३.१८ ।। द्रव्य-नाशः कोश-आबाधकः । शत्रु-वेदनं प्राण-आबाधकं इति ।। ०८.३.१९ ।। अनर्थ्य-सम्योगाद्दुःख-सम्योगो गरीयान् ।। ०८.३.२० ।। अनर्थ्य-सम्योगो मुहूर्त-प्रतीकारो । दीर्घ-क्लेश-करो दुःखानां आसङ्ग इति ।। ०८.३.२१ ।। तस्मात्कोपो गरीयान् ।। ०८.३.२२ ।। वाक्-पारुष्यं अर्थ-दूषणं दण्ड-पारुष्यं इति ।। ०८.३.२३ ।। "वाक्-पारुष्य-अर्थ-दूषणयोर्वाक्-पारुष्यं गरीयः" इति विशाल-अक्षः ।। ०८.३.२४ ।। "परुष-मुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ।। ०८.३.२५ ।। दुरुक्त-शल्यं हृदि निखातं तेजः-संदीपनं इन्द्रिय-उपतापि च" इति ।। ०८.३.२६ ।। नैति कौटिल्यः ।। ०८.३.२७ ।। अर्थ-पूजा वाक्-शल्यं अपहन्ति । वृत्ति-विलोपस्त्वर्थ-दूषणं ।। ०८.३.२८ ।। अदानं आदानं विनाशः परित्यागो वाअर्थस्यैत्यर्थ-दूषणं ।। ०८.३.२९ ।। "अर्थ-दूषण-दण्ड-पारुष्ययोरर्थ-दूषणं गरीयः" इति पाराशराः ।। ०८.३.३० ।। "अर्थ-मूलौ धर्म-कामौ ।। ०८.३.३१ ।। अर्थ-प्रतिबद्धश्च लोको वर्तते ।। ०८.३.३२ ।। तस्य-उपघातो गरीयान्" इति ।। ०८.३.३३ ।। नैति कौटिल्यः ।। ०८.३.३४ ।। सुमहताअप्यर्थेन न कश्चन शरीर-विनाशं इच्छेत् ।। ०८.३.३५ ।। दण्ड-पारुष्याच्च तं एव दोषं अन्येभ्यः प्राप्नोति ।। ०८.३.३६ ।। इति कोपजस्त्रि-वर्गः ।। ०८.३.३७ ।। कामजस्तु मृगया द्यूतं स्त्रियः पानं इति चतुर्-वर्गः ।। ०८.३.३८ ।। तस्य "मृगया-द्यूतयोर्मृगया गरीयसी" इति पिशुनः ।। ०८.३.३९ ।। "स्तेन-अमित्र-व्याल-दाव-प्रस्खलन-भय-दिन्-मोहाः क्षुत्-पिपासे च प्राण-आबाधस्तस्यां ।। ०८.३.४० ।। द्यूते तु जितं एवाक्ष-विदुषा यथा जयत्-सेन-दुर्योधनाभ्याम्" इति ।। ०८.३.४१ ।। नैत्य्कौटिल्यः ।। ०८.३.४२ ।। तयोरप्यन्यतर-पराजयोअस्तिइति नल-युधिष्ठिराभ्यां व्याख्यातं ।। ०८.३.४३ ।। तदेव विजित-द्रव्यं आमिषं वैर-अनुबन्धश्च ।। ०८.३.४४ ।। सतोअर्थस्य विप्रतिपत्तिरसतश्चार्जनं अप्रतिभुक्त-नाशो मूत्र-पुरीष-धारण-बुभुक्षा-आदिभिश्च व्याधि-लाभ इति द्यूत-दोषाः ।। ०८.३.४५ ।। मृगयायां तु व्यायामः श्लेष्म-पित्त-मेदः-स्वेद-नाशश्चले स्थिते च काये लक्ष-परिचयः कोप-भय-स्थानेषु च मृगाणां चित्त-ज्ञानं अनित्य-यानं चैति ।। ०८.३.४६ ।। "द्यूत-स्त्री-व्यसनयोः कैतव-व्यसनम्" इति कौणपदन्तः ।। ०८.३.४७ ।। "सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः ।। ०८.३.४८ ।। कृच्छ्रे च प्रतिपृष्टः कुप्यति ।। ०८.३.४९ ।। स्त्री-व्यसने तु स्नान-प्रतिकर्म-भोजन-भूमिषु भवत्येव धर्म-अर्थ-परिप्रश्नः ।। ०८.३.५० ।। शक्या च स्त्री राजहिते-नियोक्तुम् । उपांशु-दण्डेन व्याधिना वा व्यावर्तयितुं अवस्रावयितुं वा" इति ।। ०८.३.५१ ।। नैति कौटिल्यः ।। ०८.३.५२ ।। सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्री-व्यसनं ।। ०८.३.५३ ।। अदर्शनं कार्य-निर्वेदः काल-अतिपातनादनर्थो धर्म-लोपश्च तन्त्र-दौर्बल्यं पान-अनुबन्धश्चैति ।। ०८.३.५४ ।। "स्त्री-पान-व्यसनयोः स्त्री-व्यसनम्" इति वातव्याधिः ।। ०८.३.५५ ।। "स्त्रीषु हि बालिश्यं अनेक-विधं निशान्त-प्रणिधौ व्याख्यातं ।। ०८.३.५६ ।। पाने तु शब्द-आदीनां इन्द्रिय-अर्थानां उपभोगः प्रीति-दानं परिजन-पूजनं कर्म-श्रम-वधश्च" इति ।। ०८.३.५७ ।। नैति कौटिल्यः ।। ०८.३.५८ ।। स्त्री-व्यसने भवत्यपत्य-उत्पत्तिरात्म-रक्षणं चान्तर्-दारेषु । विपर्ययो वा बाह्येषु । अगम्येषु सर्व-उच्छित्तिः ।। ०८.३.५९ ।। तदुभयं पान-व्यसने ।। ०८.३.६० ।। पान-सम्पत् संज्ञा-नाशोअनुन्मत्तस्यौन्मत्तत्वं अप्रेतस्य प्रेतत्वं कौपीन-दर्शनं श्रुत-प्रज्ञा-प्राण-वित्त-मित्र-हानिः सद्भिर्वियोगोअनर्थ्य-सम्योगस्तन्त्री-गीत-नैपुण्येषु चार्थघ्नेषु प्रसङ्ग इति ।। ०८.३.६१ ।। द्यूत-मद्ययोर्द्यूतं ।। ०८.३.६२ ।। एकेषां पण-निमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्ष-द्वैधेन प्रकृति-कोपं करोति ।। ०८.३.६३ ।। विशेषतश्च संघानां संघ-धर्मिणां च राज-कुलानां द्यूत-निमित्तो भेदस्तन्-निमित्तो विनाश इत्यसत्-प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र-दौर्बल्यादिति ।। ०८.३.६४ ।। असतां प्रग्रहः कामः कोपश्चावग्रहः सतां । ।। ०८.३.६५अ ब ।। व्यसनं दोष-बाहुल्यादत्यन्तं उभयं मतं ।। ०८.३.६५च्द् ।। तस्मात्कोपं च कामं च व्यसन-आरम्भं आत्मवान् । ।। ०८.३.६६अ ब ।। परित्यजेन्मूल-हरं वृद्ध-सेवी जित-इन्द्रियः ।। ०८.३.६६च्द् ।।
✦ ✦ ✦
“Of the vices born of lust, the teachers count four: the chase, the dice, women, and drink.…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.