Arthashastra. Book 8, Chapter 4: Calamities of nature. Fire, flood, famine, plague, and the country itself

Book 8 · Chapter 4

Concerning Vices and Calamities

Calamities of nature. Fire, flood, famine, plague, and the country itself

दैव-पीडनं अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति ।। ०८.४.०१ ।। "अग्न्य्-उदकयोरग्नि-पीडनं अप्रतिकार्यं सर्व-दाहि च । शक्य-अपगमनं तार्य-आबाधं उदक-पीडनम्" इत्याचार्याः ।। ०८.४.०२ ।। नैत्कौटिल्यः ।। ०८.४.०३ ।। अग्निर्ग्रामं अर्ध-ग्रामं वा दहति । उदक-वेगस्तु ग्राम-शत-प्रवाहीइति ।। ०८.४.०४ ।। "व्याधि-दुर्भिक्षयोर्व्याधिः प्रेत-व्याधित-उपसृष्ट-परिचारक-व्यायाम-उपरोधेन कर्माण्युपहन्ति । दुर्भिक्षं पुनरकर्म-उपघाति हिरण्य-पशु-कर-दायि च" इत्याचार्याः ।। ०८.४.०५ ।। नैति कौटिल्यः ।। ०८.४.०६ ।। एक-देश-पीडनो व्याधिः शक्य-प्रतीकारश्च । सर्व-देश-पीडनं दुर्भिक्षं प्राणिनां अजीवनायैति ।। ०८.४.०७ ।। तेन मरको व्याख्यातः ।। ०८.४.०८ ।। "क्षुद्रक-मुख्य-क्षययोः क्षुद्रक-क्षयः कर्मणां अयोग-क्षेमं करोति । मुख्य-क्षयः कर्म-अनुष्ठान-उपरोध-धर्मा" इत्याचार्याः ।। ०८.४.०९ ।। नैति कौटिल्यः ।। ०८.४.१० ।। शक्यः क्षुद्रक-क्षयः प्रतिसंधातुं बाहुल्यात्क्षुद्रकाणाम् । न मुख्य-क्षयः ।। ०८.४.११ ।। सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्व-प्रज्ञा-आधिक्यात्तद्-आश्रयत्वात्क्षुद्रकाणां इति ।। ०८.४.१२ ।। "स्व-चक्र-पर-चक्रयोः स्व-चक्रं अतिमात्राभ्यां दण्ड-कराभ्यां पीडयत्यशक्यं च वारयितुम् । पर-चक्रं तु शक्यं प्रैयोद्धुं उपसारेण संधिना वा मोक्षयितुम्" इत्याचार्याः ।। ०८.४.१३ ।। नैति कौटिल्यः ।। ०८.४.१४ ।। स्व-चक्र-पीडनं प्रकृति-पुरुष-मुख्य-उपग्रह-विघाताभ्यां शक्यते वारयितुं एक-देशं वा पीडयति । सर्व-देश-पीडनं तु पर-चक्रं विलोप-घात-दाह-विध्वंसन-अपवाहनैः पीडयतिइति ।। ०८.४.१५ ।। "प्रकृति-राज-विवादयोः प्रकृइति-विवादः प्रकृतीनां भेदकः पर-अभियोगानावहति । राज-विवादस्तु प्रकृतीनां द्वि-गुण-भक्त-वेतन-परिहार-करो भवति" इत्याचार्याः ।। ०८.४.१६ ।। नैति कौटिल्यः ।। ०८.४.१७ ।। शक्यः प्रकृति-विवादः प्रकृति-मुख्य-उपग्रहेण कलह-स्थान-अपनयनेन वा वारयितुं ।। ०८.४.१८ ।। विवदमानास्तु प्रकृतयः परस्पर-संघर्षेणौपकुर्वन्ति ।। ०८.४.१९ ।। राज-विवादस्तु पीडन-उच्छेदनाय प्रकृतीनां द्वि-गुण-व्यायाम-साध्य इति ।। ०८.४.२० ।। "देश-राज-विहारयोर्देश-विहारस्त्रैकाल्येन कर्म-फल-उपघातं करोति । राज-विहारस्तु कारु-शिल्पि-कुशीलव-वाग्-जीवन-रूप-आजीवा-वैदेहक-उपकारं करोति" इत्याचार्याः ।। ०८.४.२१ ।। नैति कौटिल्यः ।। ०८.४.२२ ।। देश-विहारः कर्म-श्रमं अवधा-अर्थं अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति । राज-विहारस्तु स्वयं वल्लभैश्च स्वयं-ग्राह-प्रणय-पण्य-अगार-कार्य-उपग्रहैः पीडयतिइति ।। ०८.४.२३ ।। "सुभगा-कुमारयोः कुमारः स्वयं वल्लभैश्च स्वयं-ग्राह-प्रणय-पण्य-अगार-कार्य-उपग्रहैः पीडयति । सुभगा विलास-उपभोगेन" इत्याचार्याः ।। ०८.४.२४ ।। नैति कौटिल्यः ।। ०८.४.२५ ।। शक्यः कुमारो मन्त्रि-पुरोहिताभ्यां वारयितुम् । न सुभगा बालिश्यादनर्थ्य-जन-सम्योगाच्चैति ।। ०८.४.२६ ।। "श्रेणी-मुख्ययोः श्रेणी बाहुल्यादनवग्रहा स्तेय-साहसाभ्यां पीडयति । मुख्यः कार्य-अनुग्रह-विघाताभ्याम्" इत्याचार्याः ।। ०८.४.२७ ।। नैति कौटिल्यः ।। ०८.४.२८ ।। सुव्यावर्त्या श्रेणी समान-शील-व्यसनत्वात् । श्रेणी-मुख्य-एक-देश-उपग्रहेण वा ।। ०८.४.२९ ।। स्तम्भ-युक्तो मुख्यः पर-प्राण-द्रव्य-उपघाताभ्यां पीडयतिइति ।। ०८.४.३० ।। "सम्निधातृ-समाहर्त्रोः सम्निधाता कृत-विदूषण-अत्ययाभ्यां पीडयति । समाहर्ता करण-अधिष्ठितः प्रदिष्ट-फल-उपभोगी भवति" इत्याचार्याः ।। ०८.४.३१ ।। नैति कौटिल्यः ।। ०८.४.३२ ।। सम्निधाता कृत-अवस्थं अन्यैः कोश-प्रवेश्यं प्रतिगृह्णाति । समाहर्ता तु पूर्वं अर्थं आत्मनः कृत्वा पश्चाद्राज-अर्थं करोति प्रणाशयति वा । पर-स्व-आदाने च स्व-प्रत्ययश्चरतिइति ।। ०८.४.३३ ।। "अन्त-पाल-वैदेहकयोरन्त-पालश्चोर-प्रसर्ग-देय-अत्यादानाभ्यां वणिक्-पथं पीडयति । वैदेहकास्तु पण्य--प्रतिपण्य-अनुग्रहैः प्रसाधयन्ति" इत्याचार्याः ।। ०८.४.३४ ।। नैति कौटिल्यः ।। ०८.४.३५ ।। अन्त-पालः पण्य-सम्पात-अनुग्रहेण वर्तयति । वैदेहकास्तु सम्भूय पण्यानां उत्कर्ष-अपकर्षं कुर्वाणाः पणे पण-शतं कुम्भे कुम्भ-शतं इत्याजीवन्ति ।। ०८.४.३६ ।। अभिजात-उपरुद्धा भूमिः पशु-व्रज-उपरुद्धा वाइति "अभिजात-उपरुद्धा भूमिः महा-फलाअप्यायुधीय-उपकारिणी न क्षमा मोक्षयितुं व्यसन-आबाध-भयात् । पशु-व्रज-उपरुद्धा तु कृषि-योग्या क्षमा मोक्षयितुं ।। ०८.४.३७ ।। विवीतं हि क्षेत्रेण बाध्यते" इत्याचार्याः ।। ०८.४.३८ ।। नैति कौटिल्यः ।। ०८.४.३९ ।। अभिजात-उपरुद्धा भूमिरत्यन्त-महा-उपकाराअपि क्षमा मोक्षयितुं व्यसन-आबाध-भयात् । पशु-व्रज-उपरुद्धा तु कोश-वाहन-उपकारिणी न क्षमा मोक्षयितुम् । अन्यत्र सस्य-वाप-उपरोधादिति ।। ०८.४.४० ।। "प्रतिरोधक-आटविकयोः प्रतिरोधका रात्रि-सत्त्र-चराः शरीर-आक्रमिणो नित्याः शत-सहस्र-अहपारिणः प्रधान-कोपकाश्च व्यवहिताः प्रत्यन्तर-अरण्य-चराश्चऽटविकाः प्रकाशा दृस्याश्चरन्ति । एक-देश-घातकाश्च" इत्याचार्याः ।। ०८.४.४१ ।। नैति कौटिल्यः ।। ०८.४.४२ ।। प्रतिरोधकाः प्रमत्तस्यापरहन्ति । अल्पाः कुण्ठाः सुखा ज्ञातुं ग्रहीतुं च । स्व-देशस्थाः प्रभूता विक्रान्ताश्चऽटविकाः प्रकाश-योदिनोअपहर्तारो हन्तारश्च देशानां राज-सधर्माण इति ।। ०८.४.४३ ।। मृग-हस्ति-वनयोः मृगाः प्रभूताः प्रभूत-मांस-चर्म-उपकारिणो मन्द-ग्रास-अवक्लेशिनः सुनियम्याश्च ।। ०८.४.४४ ।। विपरीता हस्तिनो गृह्यमाणा दुष्टाश्च देश-विनाशायैति ।। ०८.४.४५ ।। स्व-पर-स्थानीय-उपकारयोः स्व-स्थानीय-उपकारो धान्य-पशु-हिरण्य-कुप्य-उपकारो जानपदानां आपद्यात्म-धारणः ।। ०८.४.४६ ।। विपरीतः पर-स्थानीय-उपकारः ।। ०८.४.४७ ।। इति पीडनानि आभ्यन्तरो मुख्य-स्तम्भो बाह्योअमित्र-अटवी-स्तम्भः [इति स्तम्भ-वर्गह्] ।। ०८.४.४८ ।। ताभ्यां पीडनैर्यथा-उक्तैश्च पीडितः । सक्तो मुख्येषु । परिहार-उपहतः । प्रकीर्णो । मिथ्या-संहृतः । सामन्त-अटवी-हृत इति कोश-सङ्ग-वर्गः ।। ०८.४.४९ ।। पीडनानां अनुत्पत्तावुत्पन्नानां च वारणे । ।। ०८.४.५०अ ब ।। यतेत देश-वृद्ध्य्-अर्थं नाशे च स्तम्भ-सङ्गयोः ।। ०८.४.५०च्द् ।।

✦ ✦ ✦

Of the calamities sent by the gods, fire consumes one quarter; flood consumes one quarter
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.