Arthashastra. Book 9, Chapter 1: Shakti, desha, kala. The three audits before any campaign
Book 9 · Chapter 1
The Work of an Invader
Shakti, desha, kala. The three audits before any campaign
विजिगीषुरात्मनः परस्य च बल-अबलं शक्ति-देश-काल-यात्रा-काल-बल-समुद्दान-काल-पश्चात्-कोप-क्षय-व्यय-लाभ-आपदां ज्ञात्वा विशिष्ट-बलो यायात् । अन्यथाआसीत ।। ०९.१.०१ ।। "उत्साह-प्रभावयोरुत्साहः श्रेयान् ।। ०९.१.०२ ।। स्वयं हि राजा शूरो बलवानरोगः कृत-अस्त्रो दण्ड-द्वितीयोअपि शक्तः प्रभाववन्तं राजानं जेतुं ।। ०९.१.०३ ।। अल्पोअपि चास्य दण्डस्तेजसा कृत्य-करो भवति ।। ०९.१.०४ ।। निरुत्साहस्तु प्रभाववान्राजा विक्रम-अभिपन्नो नश्यति" इत्याचार्याः ।। ०९.१.०५ ।। नैति कौटिल्यः ।। ०९.१.०६ ।। प्रभाववानुत्साहवन्तं राजानं प्रभावेनातिसंधत्ते तद्-विशिष्टं अन्यं राजानं आवाह्य भृत्वा क्रीत्वा प्रवीर-पुरुषान् ।। ०९.१.०७ ।। प्रभूत-प्रभाव-हय-हस्ति-रथ-उपकरण-सम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति ।। ०९.१.०८ ।। उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोअन्धाश्च पृथिवीं जिग्युरिति ।। ०९.१.०९ ।। "प्रभाव-मन्त्रयोः प्रभावः श्रेयान् ।। ०९.१.१० ।। मन्त्र-शक्ति-सम्पन्नो हि वन्ध्य-बुद्धिरप्रभावो भवति ।। ०९.१.११ ।। मन्त्र-कर्म चास्य निश्चितं अप्रभावो गर्भ-धान्यं अवृष्टिरिवौपहन्ति" इत्याचार्याः ।। ०९.१.१२ ।। नैति कौटिल्यः ।। ०९.१.१३ ।। मन्त्र-शक्तिः श्रेयसी ।। ०९.१.१४ ।। प्रज्ञा-शास्त्र-चक्षुर्हि राजाअल्पेनापि प्रयत्नेन मन्त्रं आधातुं शक्तः परानुत्साह-प्रभाववतश्च साम-आदिभिर्योग-उपनिषद्भ्यां चातिसंधातुं ।। ०९.१.१५ ।। एवं उत्साह-प्रभाव-मन्त्र-शक्तीनां उत्तर-उत्तर-अधिकोअतिसंधत्ते ।। ०९.१.१६ ।। देशः पृथिवी ।। ०९.१.१७ ।। तस्यां हिमवत्-समुद्र-अन्तरं उदीचीनं योजन-सहस्र-परिमाणं तिर्यक्चक्र-वर्ति-क्षेत्रं ।। ०९.१.१८ ।। तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ।। ०९.१.१९ ।। तेषु यथा-स्व-बल-वृद्धि-करं कर्म प्रयुञ्जीत ।। ०९.१.२० ।। यत्र-आत्मनः सैन्य-व्यायामानां भूमिः । अभूमिः परस्य । स उत्तमो देशः । विपरीतोअधमः । साधारणो मध्यमः ।। ०९.१.२१ ।। कालः शीत-उष्ण-वर्ष-आत्मा ।। ०९.१.२२ ।। तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगं इति विशेषाः ।। ०९.१.२३ ।। तेषु यथा-स्व-बल-वृद्धि-करं कर्म-प्रयुञ्जीत ।। ०९.१.२४ ।। यत्र-आत्मनः सैन्य-व्यायामानां ऋतुः अनृतुः परस्य । स उत्तमः कालः । विपरीतोअधमः । साधारणो मध्यमः ।। ०९.१.२५ ।। "शक्ति-देश-कालानां तु शक्तिः श्रेयसी" इत्याचार्याः ।। ०९.१.२६ ।। शक्तिमान्हि निम्न-स्थलवतो देशस्य शीत-उष्ण-वर्षवतश्च कालस्य शक्तः प्रतीकारे भवति ।। ०९.१.२७ ।। "देशः श्रेयान्" इत्येके ।। ०९.१.२८ ।। "स्थल-गतो हि श्वा नक्रं विकर्षति । निम्न-गतो नक्रः श्वानम्" इति ।। ०९.१.२९ ।। "कालः श्रेयान्" इत्येके ।। ०९.१.३० ।। "दिवा काकः कौशिकं हन्ति । रात्रौ कौशिकः काकम्" इति ।। ०९.१.३१ ।। नैति कौटिल्यः ।। ०९.१.३२ ।। परस्पर-साधका हि शक्ति-देश-कालाः ।। ०९.१.३३ ।। तैरभ्युच्चितस्तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्त-अटवीषु च रक्षा विधाय कार्य-साधन-सहं कोश-दण्डं चऽदाय क्षीण-पुराण-भक्तं अगृहीत-नव-भक्तं असंस्कृत-दुर्गम-मित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिं उपहन्तुं मार्गशीर्षीं यात्रां यायात् ।। ०९.१.३४ ।। हैमानं चास्य सस्यं वासन्तिकं च मुष्टिं उपहन्तुं चैत्रीं यात्रां यायात् ।। ०९.१.३५ ।। क्षीण-कृण-काष्ठ-उदकं असंस्कृत-दुर्गम-मित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिं उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ।। ०९.१.३६ ।। अत्युष्णं अल्प-यवस-इन्धन-उदकं वा देशं हेमन्ते यायात् ।। ०९.१.३७ ।। तुषार-दुर्दिनं अगाध-निम्न-प्रायं गहन-तृण-वृक्षं वा देशं ग्रीष्मे यायात् ।। ०९.१.३८ ।। स्व-सैन्य-व्यायाम-योग्यं परस्यायोग्यं वर्षति यायात् ।। ०९.१.३९ ।। मार्गशीर्षीं तैषीं चान्तरेण दीर्घ-कालां यात्रां यायात् । चैत्रीं वैशाखीं चान्तरेण मध्यम-कालाम् । ज्येष्ठामूलीयां आषाढीं चान्तरेण ह्रस्व-कालाम् । उपोषिष्यन्व्यसने चतुर्थीं ।। ०९.१.४० ।। व्यसन-अभियानं विगृह्य-याने व्याख्यातं ।। ०९.१.४१ ।। प्रायशश्चऽचार्याः "पर-व्यसने यातव्यम्" इत्युपदिशन्ति ।। ०९.१.४२ ।। शक्त्य्-उदये यातव्यं अनैकान्न्तिकत्वाद्व्यसनानां इति कौटिल्यः ।। ०९.१.४३ ।। यदा वा प्रयातः कर्शयितुं उच्छेतुं वा शक्नुयादमित्रं तदा यायात् ।। ०९.१.४४ ।। अत्युष्ण-उपक्षीणे काले हस्ति-बल-प्रायो यायात् ।। ०९.१.४५ ।। हस्तिनो ह्यन्तः-स्वेदाः कुष्ठिनो भवन्ति ।। ०९.१.४६ ।। अनवगाहमानास्तोयं अपिबन्तश्चान्तर्-अवक्षाराच्चान्धी-भवन्ति ।। ०९.१.४७ ।। तस्मात्प्रभूत-उदके देशे वर्षति च हस्ति-बल-प्रायो यायात् ।। ०९.१.४८ ।। विपर्यये खर-उष्ट्र-अश्व-बल-प्रायो देशं अल्प-वर्ष-पङ्कं ।। ०९.१.४९ ।। वर्षति मरु-प्रायं चतुर्-अङ्ग-बलो यायात् ।। ०९.१.५० ।। सम-विषम-निम्न-स्थल-ह्रस्व-दीर्घ-वशेन वाअध्वनो यात्रां विभजेत् ।। ०९.१.५१ ।। सर्वा वा ह्रस्व-कालाः स्युर्यातव्याः कार्य-लाघवात् । ।। ०९.१.५२अ ब ।। दीर्घाः कार्य-गुरुत्वाद्वा वर्षा-वासः परत्र च ।। ०९.१.५२च्द् ।।
✦ ✦ ✦
“Three powers must be weighed before the march: the power of counsel and treasury, the powe…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.