Arthashastra. Book 9, Chapter 2: Spies before soldiers. Intelligence is the first wave of any invasion
Book 9 · Chapter 2
The Work of an Invader
Spies before soldiers. Intelligence is the first wave of any invasion
मौल-भृतक-श्रेणी-मित्र-अमित्र-अटवी-बलानां समुद्दान-कालाः ।। ०९.२.०१ ।। मूल-रक्षणादतिरिक्तं मौल-बलम् । अत्यावाप-युक्ता वा मौला मूले विकुर्वीरन् । बहुल-अनुरक्त-मौल-बलः सार-बलो वा प्रतियोद्धा । व्यायामेन योद्धव्यम् । प्रकृष्टेअध्वनि काले वा क्षय-व्यय-सहत्वान्मौलानाम् । बहुल-अनुरक्त-सम्पाते च यातव्यस्यौपजाप-भयादन्य-सैन्यानां भृत-आदीनां अविश्वासे । बल-क्षये वा सर्व-सैन्यानां इति मौल-बल-कालः ।। ०९.२.०२ ।। "प्रभूतं मे भृत-बलं अल्पं च मौल-बलम्ण्" "परस्याल्पं विरक्तं वा मौल-बलम् । फल्गु-प्रायं असारं वा भृत-सैन्यम्ण्" "मन्त्रेण योद्धव्यं अल्प-व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु-क्षय-व्ययह्ण्" "अल्प-आवापं शान्त-उपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्याल्पः प्रसारो हन्तव्यह्ण्" इति भृत-बल-कालः ।। ०९.२.०३ ।। "प्रभूतं मे श्रेणी-बलम् । शक्यं मूले यात्रायां चऽधातुम्ण्" ह्रस्वः प्रवासः । श्रेणी-बल-प्रायः प्रतियोद्धा मन्त्र-व्यायामाभ्यां प्रतियोद्धु-कामः । दण्ड-बल-व्यवहारः इति श्रेणी-बल-कालः ।। ०९.२.०४ ।। "प्रभूतं मे मित्र-बलं शक्यं मूले यात्रायां चऽधातुम्ण्" "अल्पः प्रवासो मन्त्र-युद्धाच्च भूयो व्यायाम-युद्धम्ण्" "मित्र-बलेन वा पूर्वं अटवीं नगर-स्थानं आसारं वा योधयित्वा पश्चात्स्व-बलेन योद्धयिष्यामिण्" "मित्र-साधारणं वा मे कार्यम्ण्" "मित्र-आयत्ता वा मे कार्य-सिद्धिह्ण्" "आसन्नं अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वाअस्य सादयिष्यामि" इति मित्र-बल-कालः ।। ०९.२.०५ ।। "प्रभूतं मे शत्रु-बलम् । शत्रु-बलेन योधयिष्यामि नगर-स्थानं अटवीं वा । तत्र मे श्व-वराहयोः कलहे चण्डालस्यैवान्यतर-सिद्धिर्भविष्यतिण्" "आसाराणां अटवीनां वा कण्टक-मर्दनं एतत्करिष्यामिण्" अत्युपचितं वा कोप-भयान्नित्यं आसन्नं अरि-बलं वासयेद् । अन्यत्र-अभ्यन्तर-कोप-शङ्कायाः शत्रु-युद्ध-अवर-युद्ध-कालश्च इत्यमित्र-बल-कालः ।। ०९.२.०६ ।। तेनाटवी-बल-कालो व्याख्यातः ।। ०९.२.०७ ।। मार्ग-आदेशिकम् । पर-भूमि-योग्यम् । अरि-युद्ध-प्रतिलोमम् । अटवी-बल-प्रायः शत्रुर्वा । "बिल्वं बिल्वेन हन्यताम्ण्" अल्पः प्रसारो हन्तव्यः इत्यटवी-बल-कालः ।। ०९.२.०८ ।। सैन्यं अनेकं अनेकस्थं उक्तं अनुक्तं वा विलोप-अर्थं यदुत्तिष्ठति तदौत्साहिकं अभक्त-वेतनं विलोप-विष्टि-प्रताप-करं भेद्यं परेषाम् । अभेद्यं तुल्य-देश-जाति-शिल्प-प्रायं संहतं महत् [इति बल-उपादान-कालाह्] ।। ०९.२.०९ ।। तेषां कुप्य-भृतं अमित्र-अटवी-बलं विलोप-भृतं वा कुर्यात् ।। ०९.२.१० ।। अमित्रस्य वा बल-काले प्रत्युत्पन्ने शत्रु-बलं अवगृह्णीयात् । अन्यत्र वा प्रेषयेत् । अफलं वा कुर्यात् । विक्षिप्तं वा वासयेत् । काले वाअतिक्रान्ते विसृजेत् ।। ०९.२.११ ।। परस्य चएतद्बल-समुद्दानं विघातयेत् । आत्मनः सम्पादयेत् ।। ०९.२.१२ ।। पूर्वं पूर्वं चएषां श्रेयः सम्नाहयितुं ।। ०९.२.१३ ।। तद्-भाव-भावित्वान्नित्य-सत्कार-अनुगमाच्च मौल-बलं भृत-बलात्श्रेयः ।। ०९.२.१४ ।। नित्य-अनन्तरं क्षिप्र-उत्थायि वश्यं व भृत-बलं श्रेणी-बलात्श्रेयः ।। ०९.२.१५ ।। जानपदं एक-अर्थ-उपगतं तुल्य-संघर्ष-अमर्ष-सिद्धि-लाभं च श्रेणी-बलं मित्र-बलात्श्रेयः ।। ०९.२.१६ ।। अपरिमित-देश-कालं एक-अर्थ-उपगमाच्च मित्र-बलं अमित्र-बलात्श्रेयः ।। ०९.२.१७ ।। आर्य-अधिष्ठितं अमित्र-बलं अटवी-बलात्श्रेयः ।। ०९.२.१८ ।। तदुभयं विलोप-अर्थं ।। ०९.२.१९ ।। अविलोपे व्यसने च ताभ्यां अहि-भयं स्यात् ।। ०९.२.२० ।। "ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-सैन्यानां तेजः-प्राधान्यात्पूर्वं पूर्वं श्रेयः सम्नाहयितुम्" इत्याचार्याः ।। ०९.२.२१ ।। नैति कौटिल्यः ।। ०९.२.२२ ।। प्रणिपातेन ब्राह्मण-बलं परोअभिहारयेत् ।। ०९.२.२३ ।। प्रहरण-विद्या-विनीतं तु क्षत्रिय-बलं श्रेयः । बहुल-सारं वा वैश्य-शूद्र-बलं इति ।। ०९.२.२४ ।। तस्मादेवं-बलः परः । तस्यएतत्प्रतिबलं इति बल-समुद्दानं कुर्यात् ।। ०९.२.२५ ।। हस्ति-यन्त्र-शकट-गर्भ-कुन्त-प्रास-हाटक-वेणु-शल्यवद्हस्ति-बलस्य प्रतिबलं ।। ०९.२.२६ ।। तदेव पाषाण-लगुड-आवरण-अङ्कुश-कच-ग्रहणी-प्रायं रथ-बलस्य प्रतिबलं ।। ०९.२.२७ ।। तदेवाश्वानां प्रतिबलम् । वर्मिणो वा हस्तिनोअश्वा वा वर्मिणः ।। ०९.२.२८ ।। कवचिनो रथा आवरणिनः पत्तयश्च चतुर्-अङ्ग-बलस्य प्रतिबलं ।। ०९.२.२९ ।। एवं बल-समुद्दानं पर-सैन्य-निवारणं । ।। ०९.२.३०अ ब ।। विभवेन स्व-सैन्यानां कुर्यादङ्ग-विकल्पशः ।। ०९.२.३०च्द् ।।
✦ ✦ ✦
“Before the army marches, the spies have marched. They shall know the strength of his forts…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.