Arthashastra. Book 9, Chapter 3: The slight annoyance in the rear is worse than great profit in front
Book 9 · Chapter 3
The Work of an Invader
The slight annoyance in the rear is worse than great profit in front
अल्पः पश्चात्-कोपो महान्पुरस्ताल्-लाभ इति अल्पः पश्चात्-कोपो गरीयान् ।। ०९.३.०१ ।। अल्पं पश्चात्-कोपं प्रयातस्स्य दूष्य-अमित्र-आटविका हि सर्वतः समेधयन्ति । प्रकृति-कोपो वा ।। ०९.३.०२ ।। लब्धं अपि च महान्तं पुरस्ताल्-लाहं एवं-भूते भृत्य-मित्र-क्षय-व्यया ग्रसन्ते ।। ०९.३.०३ ।। तस्मात्सहस्र-एकीयः पुरस्ताल्-लाभस्यायोगः शत-एकीयो वा पश्चात्-कोप इति न यायात् ।। ०९.३.०४ ।। सूची-मुखा ह्यनर्था इति लोक-प्रवादः ।। ०९.३.०५ ।। पश्चात्-कोपे साम-दान-भेद-दण्डान्प्रयुञ्जीत ।। ०९.३.०६ ।। पुरस्ताल्-लाभे सेना-पतिं कुमारं वा दण्ड-चारिणं कुर्वीत ।। ०९.३.०७ ।। बलवान्वा राजा पश्चात्-कोप-अवग्रह-समर्थः पुरस्ताल्-लाभं आदातुं यायात् ।। ०९.३.०८ ।। अभ्यन्तर-कोप-शङ्कायां शङ्कितानादाय यायात् । बाह्य-कोप-शङ्कायां वा पुत्र-दारं एषां ।। ०९.३.०९ ।। अभ्यन्तर-अवग्रहं कृत्वा शून्य-पालं अनेक-बल-वर्गं अनेक-मुख्यं च स्थापयित्वा यायात् । न वा यायात् ।। ०९.३.१० ।। अभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्तात् ।। ०९.३.११ ।। मन्त्र-पुरोहित-सेना-पति-युव-राजानां अन्यतम-कोपोअभ्यन्तर-कोपः ।। ०९.३.१२ ।। तं आत्म-दोष-त्यागेन पर-शक्त्य्-अपराध-वशेन वा साधयेत् ।। ०९.३.१३ ।। महा-अपराधेअपि पुरोहिते सम्रोधनं अवस्रावणं वा सिद्धिः । युव-राजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन्सति पुत्रे ।। ०९.३.१४ ।। पुत्रं भ्रातरं अन्यं वा कुल्यं राज-ग्राहिणं उत्साहेन साधयेत् । उत्साह-अब्भावे गृहीत-अनुवर्तन-संधि-कर्मभ्यां अरि-संधान-भयात् ।। ०९.३.१५ ।। अन्येभ्यस्तद्-विधेभ्यो वा भूमि-दानैर्विश्वासयेदेनं ।। ०९.३.१६ ।। तद्-विशिष्टं स्वयं-ग्राहं दण्डं वा प्रेषयेत् । सामन्त-आटविकान्वा । तैर्विगृहीतं अतिसंदध्यात् ।। ०९.३.१७ ।। अपरुद्ध-आदानं पारग्रामिकं वा योगं आतिष्ठेत् ।। ०९.३.१८ ।। एतेन मन्त्र-सेना-पती व्याख्यातौ ।। ०९.३.१९ ।। मन्त्र्य्-आदि-वर्जानां अन्तर्-अमात्यानां अन्यतम-कोपोअन्तर्-अमात्य-कोपः ।। ०९.३.२० ।। तत्रापि यथा-अर्हं उपायान्प्रयुञ्जीत ।। ०९.३.२१ ।। राष्ट्र-मुख्य-अन्त-पाल-आटविक-दण्ड-उपनतानां अन्यतम-कोपो बाह्य-कोपः ।। ०९.३.२२ ।। तं अन्योन्येनावग्राहयेत् ।। ०९.३.२३ ।। अतिदुर्ग-प्रतिष्टब्धं वा सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनावग्राहयेत् ।। ०९.३.२४ ।। मित्रेणौपग्राहयेद्वा यथा नामित्रं गच्छेत् ।। ०९.३.२५ ।। अमित्राद्वा सत्त्री भेदयेदेनं "अयं त्वा योग-पुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति । अवाप्त-अर्थो दण्ड-चारिणं अमित्र-आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति । विपुत्र-दारं अन्ते वा वासयिष्यति ।। ०९.३.२६ ।। प्रतिहत-विक्रमं त्वां भर्तर्य्पण्यं करिष्यति । त्वया वा संधिं कृत्वा भर्तारं एव प्रसादयिष्यति ।। ०९.३.२७ ।। मित्रं उपकृष्टं वाअस्य गच्छ" इति ।। ०९.३.२८ ।। प्रतिपन्नं इष्ट-अभिप्रायैः पूजयेत् ।। ०९.३.२९ ।। अप्रतिपन्नस्य संश्रयं भेदयेद्"असौ ते योग-पुरुषः प्रणिहितः" इति ।। ०९.३.३० ।। सत्त्री चएनं अभित्यक्त-शासनैर्घातयेत् । गूढ-पुरुषैर्वा ।। ०९.३.३१ ।। सह-प्रस्थायिनो वाअस्य प्रवीर-पुरुषान्यथा-अभिप्राय-करणेनऽवाहयेत् ।। ०९.३.३२ ।। तेन प्रणिहितान्सत्त्री ब्रूयात् ।। ०९.३.३३ ।। इति सिद्धिः ।। ०९.३.३४ ।। परस्य चएनान्कोपानुत्थापयेत् । आत्मनश्च शमयेत् ।। ०९.३.३५ ।। यः कोपं कर्तुं शमयितुं वा शक्तस्तत्रौपजापः कार्यः ।। ०९.३.३६ ।। यः सत्य-संधः शक्तः कर्मणि फल-अवाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः । तर्कयितव्यश्च कल्याण-बुद्धिरुताहो शठ इति ।। ०९.३.३७ ।। शठो हि बाह्योअभ्यन्तरं एवं उपजपति "भर्तारं चेद्द्हत्वा मां प्रतिपादयिष्यति शत्रु-वधो भूमि-लाभश्च मे द्विविधो लाभो भविष्यति । अथ वा शत्रुरेनं आहनिष्यतिइति हत-बन्धु-पक्षस्तुल्य-दोष-दण्डेनौद्विग्नश्च मे भूयानकृत्य-पक्षो भविष्यति । तद्-विधे वाअन्यस्मिन्नपि शङ्कितो भविष्यति । अन्यं अन्यं चास्य मुख्यम् अभित्यक्त-शासनेन घातयिष्यामि" इति ।। ०९.३.३८ ।। अभ्यन्तरो वा शठो बाह्यं एवं उपजपति "कोशं अस्य हरिष्यामि । दण्डं वाअस्य हनिष्यामि । दुष्टं वा भर्तारं अनेन घातयिष्यामि । प्रतिपन्नं बाह्यं अमित्र-आटविकेषु विक्रमयिष्यामि "चक्रं अस्य सज्यताम् । वैरं अस्य प्रसज्यताम् । ततः स्व-अधीनो मे भविष्यति । ततो भर्तारं एव प्रसादयिष्यामि । स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्य-भूमिं भर्तृ-भूमिं चौभयं अवाप्स्यामि । विरुद्धं वाआवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि । शून्यं वाअस्य मूलं हरिष्यामि" इति ।। ०९.३.३९ ।। कल्याण-बुद्धिस्तु सह-जीव्यर्थं उपजपति ।। ०९.३.४० ।। कल्याण-बुद्धिना संदधीत । शठं "तथा" इति प्रतिगृह्यातिसंदध्यात् इति ।। ०९.३.४१ ।। एवं उपलभ्य परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे । ।। ०९.३.४२अ ब ।। रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यं आत्मा विपश्चिता ।। ०९.३.४२च्द् ।।
✦ ✦ ✦
“Of the two things, slight annoyance in the rear, and considerable profit in the front, sli…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.