Arthashastra. Book 9, Chapter 4: The ledger of gain, loss, and expense. No march without all three numbers

Book 9 · Chapter 4

The Work of an Invader

The ledger of gain, loss, and expense. No march without all three numbers

युग्य-पुरुष-अपचयः क्षयः ।। ०९.४.०१ ।। हिरण्य-धान्य-अपचयो व्ययः ।। ०९.४.०२ ।। ताभ्यां बहु-गुण-विशिष्टे लाभे यायात् ।। ०९.४.०३ ।। आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्व-कालस्तनु-क्षयोअल्प-व्ययो महान्वृद्ध्य्-उदयः कल्यो धर्म्यः पुरोगश्चैति लाभ-सम्पत् ।। ०९.४.०४ ।। सुप्राप्य-अनुपाल्यः परेषां अप्रत्यादेय इत्यादेयः ।। ०९.४.०५ ।। विपर्यये प्रत्यादेयः ।। ०९.४.०६ ।। तं आददानस्तत्रस्थो वा विनाशं प्राप्नोति ।। ०९.४.०७ ।। यदि वा पश्येत्"प्रत्यादेयं आदाय कोश-दण्ड-निचय-रक्षा-विधानान्यवस्रावयिष्यामि । खनि-द्रव्य-हस्ति-वन-सेतु-बन्ध-वणिक्-पथानुद्धृत-सारान्करिष्यामि । प्रकृतीरस्य कर्शयिष्यामि । अपवाहयिष्यामि । आयोगेनऽराधयिष्यामि वा । ताः परं प्रतियोगेन कोपयिष्यति । प्रतिपक्षे वाअस्य पण्यं एनं करिष्यामि । मित्रं अपरुद्धं वाअस्य प्रतिपादयिष्यामि । मित्रस्य स्वस्य वा देशस्य पीडां अत्रस्थस्तस्करेभ्यः परेभ्यश्च प्रतिकरिष्यामि । मित्रं आश्रयं वाअस्य वैगुण्यं ग्राहयिष्यामि । तदमित्र-विरक्तं तत्-कुलीनं प्रतिपत्स्यते । सत्कृत्य वाअस्मै भूमिं दास्यामि इति संहित-समुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयं अपि लाभं आददीत ।। ०९.४.०८ ।। इत्यादेय-प्रत्यादेयौ व्याख्यातौ ।। ०९.४.०९ ।। अधार्मिकाद्धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ।। ०९.४.१० ।। विपरीतः प्रकोपक इति ।। ०९.४.११ ।। मन्त्रिणां उपदेशाल्लाभोअलभ्यमानः कोपको भवति "अयं अस्माभिः क्षय-व्ययौ ग्राहितः" इति ।। ०९.४.१२ ।। दूष्य-मन्त्रिणां अनादराल्लाभो लभ्यमानः कोपको भवति "सिद्ध-अर्थोअयं अस्मान्विनाशयिष्यति" इति ।। ०९.४.१३ ।। विपरीतः प्रसादकः ।। ०९.४.१४ ।। इति प्रसादक-कोपकौ व्याख्यातौ ।। ०९.४.१५ ।। गमन-मात्र-साध्यत्वाद्ह्रस्व-कालह् ।। ०९.४.१६ ।। मन्त्र-साध्यत्वात्तनु-क्षयः ।। ०९.४.१७ ।। भक्त-मात्र-व्ययत्वादल्प-व्ययह् ।। ०९.४.१८ ।। तदात्व-वैपुल्यान्महान् ।। ०९.४.१९ ।। अर्थ-अनुबन्धकत्वाद्वृद्ध्य्-उदयः ।। ०९.४.२० ।। निराबाधकत्वात्कल्यः ।। ०९.४.२१ ।। प्रशस्त-उपादानाद्धर्म्यः ।। ०९.४.२२ ।। सामवायिकानां अनिर्बन्ध-गामित्वात्पुरोगः इति ।। ०९.४.२३ ।। तुल्ये लाभे देश-कालौ शक्त्य्-उपायौ प्रिय-अप्रियौ जव-अजवौ सामीप्य-विप्रकर्षौ तदात्व-अनुबन्धौ सारत्व-सातत्ये बाहुल्य-बाहु-गुण्ये च विमृश्य बहु-गुण-युक्तं लाभं आददीत ।। ०९.४.२४ ।। लाभ-विघ्नाः कामः कोपः साध्वसं कारुण्यं ह्रीरनार्य-भावो मानः सानुक्रोशता पर-लोक-अपेक्षा धार्मिकत्वं अत्यागित्वं दैन्यं असूया हस्त-गत-अवमानो दौरात्म्यं अविश्वासो भयं अप्रतीकारः शीत-उष्ण-वर्षाणां आक्षम्यं मङ्गल-तिथि-नक्षत्र-इष्टित्वं इति ।। ०९.४.२५ ।। नक्षत्रं अति पृच्छन्तं बालं अर्थोअतिवर्तते । ।। ०९.४.२६अ ब ।। अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ।। ०९.४.२६च्द् ।। नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्न-शतैरपि । ।। ०९.४.२७अ ब ।। अर्थैरर्था प्रबध्यन्ते गजाः प्रजिगजैरिव ।। ०९.४.२७च्द् ।।

✦ ✦ ✦

Before setting forth he shall compute three things: the gain to be made, the loss to be bo
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.