Arthashastra. Book 9, Chapter 5: The four kinds of danger. Internal, external, and abetment
Book 9 · Chapter 5
The Work of an Invader
The four kinds of danger. Internal, external, and abetment
संध्य्-आदीनां अयथा-उद्देश-अवस्थापनं अपनयः ।। ०९.५.०१ ।। तस्मादापदः सम्भवन्ति ।। ०९.५.०२ ।। बाह्य-उत्पत्तिरभ्यन्तर-प्रतिजापा । अभ्यन्तर-उत्पत्तिर्बाह्य-प्रतिजापा । बाह्य-उत्पत्तिर्बाह्य-प्रतिजापा । अभ्यन्तर-उत्पत्तिरभ्यन्तर-प्रतिजापा इत्यापदः ।। ०९.५.०३ ।। यत्र बाह्या अभ्यन्तर-अनुपजपन्ति । अभ्यन्तरा वा बाह्यान् । तत्र-उभय-योगे प्रतिजपतः सिद्धिर्विशेषवती ।। ०९.५.०४ ।। सुव्याजा हि प्रतिजपितारो भवन्ति । नौपजपितारः ।। ०९.५.०५ ।। तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः ।। ०९.५.०६ ।। कृच्छ्र-उपजापा हि बाह्यानां अभ्यन्तरास्तेषां इतरे वा ।। ०९.५.०७ ।। महतश्च प्रयत्नस्य वधः परेषाम् । अर्थ-अनुबन्धश्चऽत्मन इति ।। ०९.५.०८ ।। अभ्यन्तरेषु प्रतिजपत्सु साम-दाने प्रयुञ्जीत ।। ०९.५.०९ ।। स्थान-मान-कर्म सान्त्वं ।। ०९.५.१० ।। अनुग्रह-परिहारौ कर्मस्वायोगो वा दानं ।। ०९.५.११ ।। बाह्येषु प्रतिजपत्सु भेद-दण्डौ प्रयुञ्जीत ।। ०९.५.१२ ।। सत्त्रिणो मित्र-व्यञ्जना वा बाह्यानां चारं एषां ब्रूयुः "अयं वो राजा दूष्य-व्यञ्जनैरतिसंधातु-कामः । बुध्यध्वम्" इति ।। ०९.५.१३ ।। दूष्येषु वा दूष्य-व्यञ्जनाः प्रणिहिता दूष्यान्बाह्यैर्भेदयेयुः । बाह्यान्वा दूष्यैः ।। ०९.५.१४ ।। दूष्याननुप्रविष्टा वा तीक्ष्णाः शस्त्र-रसाभ्यां हन्युः ।। ०९.५.१५ ।। आहूय वा बाह्यान्घातयेयुः ।। ०९.५.१६ ।। यत्र बाह्या बाह्यानुपजपन्ति । अभ्यन्तरानभ्यन्तरा वा । तत्रएकान्त-योग उपजपितुः सिद्धिर्विशेषवती ।। ०९.५.१७ ।। दोष-शुद्धौ हि दूष्या न विद्यन्ते ।। ०९.५.१८ ।। दूष्य-शुद्धौ हि दोषः पुनरन्यान्दूषयति ।। ०९.५.१९ ।। तस्माद्बाह्येषुउपजपत्सु भेद-दण्डौ प्रयुञ्जीत ।। ०९.५.२० ।। सत्त्रिणो मित्र-व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयं आदातु-कामः । विगृहीताः स्थानेन राज्ञा । बुध्यध्वम्" इति ।। ०९.५.२१ ।। प्रतिजपितुर्वा दूत-दण्डाननुप्रविष्टास्तीक्ष्णाः शस्त्र-रस-आदिभिरेषां छिद्रेषु प्रहरेयुः ।। ०९.५.२२ ।। ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः ।। ०९.५.२३ ।। अभ्यन्तरानभ्यन्तरेषुउपजपत्सु यथा-अर्हं उपायं प्रयुञ्जीत ।। ०९.५.२४ ।। तुष्ट-लिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत ।। ०९.५.२५ ।। शौच-सामर्थ्य-अपदेशेन व्यसन-अभ्युदय-अवेक्षणेन वा प्रतिपूजनं इति दानं ।। ०९.५.२६ ।। मित्र-व्यञ्जनो वा ब्रूयादेतान्"चित्त-ज्ञान-अर्थं उपधास्यति वो राजा । तदस्यऽख्यातव्यं इति ।। ०९.५.२७ ।। परस्पराद्वा भेदयेदेनान्"असौ चासौ च वो राजन्येवं उपजपति" इति भेदः ।। ०९.५.२८ ।। दाण्डकर्मिकवच्च दण्डः ।। ०९.५.२९ ।। एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत् ।। ०९.५.३० ।। अहि-भयादभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्ताड ।। ०९.५.३१ ।। पूर्वां पूर्वां विजानीयाल्लघ्वीं आपदं आपदां । ।। ०९.५.३२अ ब ।। उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ।। ०९.५.३२च्द् ।।
✦ ✦ ✦
“The various kinds of dangers are: that which is of external origin and of internal abetmen…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.