Arthashastra. Book 9, Chapter 6: Treacheries that arise from the misuse of power and abundance
Book 9 · Chapter 6
The Work of an Invader
Treacheries that arise from the misuse of power and abundance
दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा ।। ०९.६.०१ ।। दूष्य-शुद्धायां पौरेषु जानपदेषु वा दण्ड-वर्जानुपायान्प्रयुञ्जीत ।। ०९.६.०२ ।। दण्डो हि महा-जने क्षेप्तुं अशक्यः ।। ०९.६.०३ ।। क्षिप्तो वा तं चार्थं न कुर्यात् । अन्यं चानर्थं उत्पादयेत् ।। ०९.६.०४ ।। मुख्येषु त्वेषां दाण्ड-कर्मिकवच्चेष्टेत ।। ०९.६.०५ ।। शत्रु-शुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः साम-आदिभिः सिद्धिं लिप्सेत ।। ०९.६.०६ ।। स्वामिन्यायत्ता प्रधान-सिद्धिः । मन्त्रिष्वायत्ताआयत्त-सिद्धिः । उभय-आयत्ता प्रधान-आयत्त-सिद्धिः ।। ०९.६.०७ ।। दूष्य-अदूष्याणां आमिश्रितत्वादामिश्रा ।। ०९.६.०८ ।। आमिश्रायां अदूष्यतः सिद्धिः ।। ०९.६.०९ ।। आलम्बन-अभावे ह्यालम्बिता न विद्यन्ते ।। ०९.६.१० ।। मित्र-अमित्राणां एकी-भावात्पर-मिश्रा ।। ०९.६.११ ।। पर-मिश्रायां मित्रतः सिद्धिः ।। ०९.६.१२ ।। सुकरो हि मित्रेण संधिः । नामित्रेणैति ।। ०९.६.१३ ।। मित्रं चेन्न संधिं इच्छेदभीक्ष्णं उपजपेत् ।। ०९.६.१४ ।। ततः सत्त्रिभिरमित्राद्भेदयित्वा मित्रं लभेत ।। ०९.६.१५ ।। मित्र-संघस्य वा योअन्त-स्थायी तं लभेत ।। ०९.६.१६ ।। अन्त-स्थायिनि लब्धे मध्य-स्थायिनो भिद्यन्ते ।। ०९.६.१७ ।। मध्य-स्थायिनं वा लभेत ।। ०९.६.१८ ।। मध्य-स्थायिनि लब्धे नान्त-स्थायिनः संहन्यन्ते ।। ०९.६.१९ ।। यथा चएषां आश्रय-भेदस्तानुपायान्प्रयुञ्जीत ।। ०९.६.२० ।। धार्मिकं जाति-कुल-श्रुत-वृत्त-स्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य-उपकारानपकाराभ्यां वा सान्त्वयेत् ।। ०९.६.२१ ।। निवृत्त-उत्साहं विग्रह-श्रान्तं प्रतिहत-उपायं क्षय-व्ययाभ्यां प्रवासेन चौपतप्तं शौचेनान्यं लिप्समानं अन्यस्माद्वा शङ्कमानं मैत्री-प्रधानं वा कल्याण-बुद्धिं साम्ना साधयेत् ।। ०९.६.२२ ।। लुब्धं क्षीणं वा तपस्वि-मुख्य-अवस्थापना-पूर्वं दानेन साधयेत् ।। ०९.६.२३ ।। तत्पञ्च-विधं देय-विसर्गो गृहीत-अनुवर्तनं आत्त-प्रतिदानं स्व-द्रव्य-दानं अपूर्वं पर-स्वेषु स्वयं-ग्राह-दानं च ।। ०९.६.२४ ।। इति दान-कर्म ।। ०९.६.२५ ।। परस्पर-द्वेष-वैर-भूमि-हरण-शङ्कितं अतोअन्यतमेन भेदयेत् ।। ०९.६.२६ ।। भीरुं वा प्रतिघातेन "कृत-संधिरेष त्वयि कर्म-करिष्यति । मित्रं अस्य निसृष्टम् । संधौ वा नाभ्यन्तरः" इति ।। ०९.६.२७ ।। यस्य वा स्व-देशादन्य-देशाद्वा पण्यानि पण्य-अगारतयाआगच्छेयुः तानि अस्य "यातव्याल्लब्धानि" इति सत्त्रिणश्चारयेयुः ।। ०९.६.२८ ।। बहुली-भूते शासनं अभित्यक्तेन प्रेषयेत्"एतत्ते पण्यं पण्य-अगारं वा मया ते प्रेषितम् । सामवायिकेषु विक्रमस्व । अपगच्छ वा । ततः पण-शेषं अवाप्स्यसि" इति ।। ०९.६.२९ ।। ततः सत्त्रिणः परेषु ग्राहयेयुः "एतदरि-प्रदत्तम्" इति ।। ०९.६.३० ।। शत्रु-प्रख्यातं वा पण्यं अविज्ञातं विजिगीषुं गच्छेत् ।। ०९.६.३१ ।। तदस्य वैदेहक-व्यञ्जनाः शत्रु-मुख्येषु विक्रीणीरन् ।। ०९.६.३२ ।। ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत्पण्यं अरि-प्रदत्तम्" इति ।। ०९.६.३३ ।। महा-अपराधानर्थ-मानाभ्यां उपगृह्य वा शस्त्र-रस-अग्निभिरमित्रे प्रणिदध्यात् ।। ०९.६.३४ ।। अथएकं अमात्यं निष्पातयेत् ।। ०९.६.३५ ।। तस्य पुत्र-दारं उपगृह्य रात्रौ हतं इति ख्यापयेत् ।। ०९.६.३६ ।। अथामात्यः शत्रोस्तानेक-एकशः प्ररूपयेत् ।। ०९.६.३७ ।। ते चेद्यथा-उक्तं कुर्युर्न चएनान्ग्राहयेत् ।। ०९.६.३८ ।। अशक्तिमतो वा ग्राहयेत् ।। ०९.६.३९ ।। आप्त-भाव-उपगतो मुख्यादस्यऽत्मानं रक्षणीयं कथयेत् ।। ०९.६.४० ।। अथामित्र-शासनं मुख्य-उपघाताय प्रेषितं उभय-वेतनो ग्राहयेत् ।। ०९.६.४१ ।। उत्साह-शक्तिमतो वा प्रेषयेत्"अमुष्य राज्यं गृहाण । यथा-अस्थितो नः संधिः" इति ।। ०९.६.४२ ।। ततः सत्त्रिणः परेषु ग्राहयेयुः ।। ०९.६.४३ ।। एकस्य स्कन्ध-आवारं वीवधं आसारं वा घातयेयुः ।। ०९.६.४४ ।। इतरेषु मैत्रीं ब्रुवाणाः "त्वं एतेषां घातयितव्यः" इत्युपजपेयुः ।। ०९.६.४५ ।। यस्य वा प्रवीर-पुरुषो हस्ती हयो वा म्रियेत गूढ-पुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्पर-उपहतं ब्रूयुः ।। ०९.६.४६ ।। ततः शासनं अभिशस्तस्य प्रेषयेत्"भूयः कुरु ततः पण-शीषं अवाप्स्यसि" इति ।। ०९.६.४७ ।। तदुभय-वेतना ग्राहयेयुः ।। ०९.६.४८ ।। भिन्नेष्वन्यतमं लभेत ।। ०९.६.४९ ।। तेन सेना-पति-कुमार-दण्ड-चारिणो व्याख्याताः ।। ०९.६.५० ।। सांधिकं च भेदं प्रयुञ्जीत ।। ०९.६.५१ ।। इति भेद-कर्म ।। ०९.६.५२ ।। तीक्ष्णं उत्साहिनं व्यसनिनं स्थित-शत्रुं वा गूढ-पुरुषाः शस्त्र-अग्नि-रस-आदिभिः साधयेयुः । सौकर्यतो वा तेषां अन्यतमः ।। ०९.६.५३ ।। तीक्ष्णो ह्येकः शस्त्र-रस-अग्निभिः साधयेत् ।। ०९.६.५४ ।। अयं सर्व-संदोह-कर्म विशिष्टं वा करोति ।। ०९.६.५५ ।। इत्युपाय-चतुर्-वर्गः ।। ०९.६.५६ ।। पूर्वः पूर्वश्चास्य लघिष्ठः ।। ०९.६.५७ ।। सान्त्वं एक-गुणं ।। ०९.६.५८ ।। दानं द्वि-गुणं सान्त्व-पूर्वं ।। ०९.६.५९ ।। भेदस्त्रि-गुणः सान्त्व-दान-पूर्वः ।। ०९.६.६० ।। दण्डश्चतुर्-गुणः सान्त्व-दान-भेद-पूर्वः ।। ०९.६.६१ ।। इत्यभियुञ्जानेषुउक्तं ।। ०९.६.६२ ।। स्व-भूमिष्ठेषु तु त एवौपायाः ।। ०९.६.६३ ।। विशेषस्तु ।। ०९.६.६४ ।। स्व-भूमिष्ठानां अन्यतमस्य पण्य-अगारैरभिज्ञातान्दूत-मुख्यानभीक्ष्णं प्रेषयेत् ।। ०९.६.६५ ।। त एनं संधौ पर-हिंसायां वा योजयेयुः ।। ०९.६.६६ ।। अप्रतिपद्यमानं "कृतो नः संधिः" इत्यावेदयेयुः ।। ०९.६.६७ ।। तं इतरेषां उभय-वेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ।। ०९.६.६८ ।। यस्य वा यस्माद्भयं वैरं द्वेषो वा तं तस्माद्भेदयेयुः "अयं ते शत्रुणा संधत्ते । पुरा त्वां अतिसंधत्ते । क्षिप्रतरं संधीयस्व । निग्रहे चास्य प्रयतस्व" इति ।। ०९.६.६९ ।। आवाह-विवाहाभ्यां वा कृत्वा सम्योगं असम्युक्तान्भेदयेत् ।। ०९.६.७० ।। सामन्त-आटविक-तत्-कुलीन-अपरुद्धैश्चएषां राज्यानि घातयेत् । सार्थ-व्रज-अटवीर्वा । दण्डं वाअभिसृतं ।। ०९.६.७१ ।। परस्पर-अपाश्रयाश्चएषां जाति-संघाश्छिद्रेषु प्रहरेयुः । गूढाश्चाग्नि-रस-शस्त्रेण ।। ०९.६.७२ ।। वीतंस-गिलवच्चारीन्योगैराचरितैः शठः । ।। ०९.६.७३अ ब ।। घातयेत्पर-मिश्रायां विश्वासेनऽमिषेण च ।। ०९.६.७३च्द् ।।
✦ ✦ ✦
“When the king misuses his power. Taxing beyond endurance, neglecting the welfare of his pe…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.