Arthashastra. Book 9, Chapter 7: Six varieties of wealth. Including the wealth that costs you
Book 9 · Chapter 7
The Work of an Invader
Six varieties of wealth. Including the wealth that costs you
काम-आदिरुत्सेकः स्वाः प्रकृतीः कोपयति । अपनयो बाह्याः ।। ०९.७.०१ ।। तदुभयं आसुरी वृत्तिः ।। ०९.७.०२ ।। स्व-जन-विकारः कोपः ।। ०९.७.०३ ।। पर-वृद्धि-हेतुषु आपद्-अर्थोअनर्थः संशय इति ।। ०९.७.०४ ।। योअर्थः शत्रु-वृद्धिं अप्राप्तः करोति । प्राप्तः प्रत्यादेयः परेषां भवति । प्राप्यमाणो वा क्षय-व्यय-उदयो भवति । स भवत्यापद्-अर्थः ।। ०९.७.०५ ।। यथा सामन्तानां आमिष-भूतः सामन्त-व्यसनजो लाभः । शत्रु-प्रार्थितो वा स्व-भाव-अधिगम्यो लाभः । पश्चात्कोपेन पार्ष्णि-ग्राहेण वा विगृहीतः पुरस्ताल्-लाभः । मित्र-उच्छेदेन संधि-व्यतिक्रमेण वा मण्डल-विरुद्धो लाभः इत्यापद्-अर्थः ।। ०९.७.०६ ।। स्वतः परतो वा भय-उत्पत्तिरित्यनर्थः ।। ०९.७.०७ ।। तयोः अर्थो न वाइति । अनर्थो न वाइति । अर्थोअनर्थ इति । अनर्थोअर्थ इति संशयः ।। ०९.७.०८ ।। शत्रु-मित्रं उत्साहयितुं अर्थो न वाइति संशयः ।। ०९.७.०९ ।। शत्रु-बलं अर्थ-मानाभ्यां आवाहयितुं अनर्थो न वाइति संशयः ।। ०९.७.१० ।। बलवत्-सामन्तां भूमिं आदातुं अर्थोअनर्थ इति संशयः ।। ०९.७.११ ।। जायसा सम्भूययानं अनर्थोअर्थ इति संशयः ।। ०९.७.१२ ।। तेषां अर्थ-संशयं उपगच्छेत् ।। ०९.७.१३ ।। अर्थोअर्थ-अनुबन्धः । अर्थो निरनुबन्धः । अर्थोअनर्थ-अनुबन्धः । अनर्थोअर्थ-अनुबन्धः । अनर्थो निरनुबन्धः । अनर्थोअनर्थ-अनुबन्धः इत्यनुबन्ध-षड्-वर्गः ।। ०९.७.१४ ।। शत्रुं उत्पाट्य पार्ष्णि-ग्राह-आदानं अर्थोअनर्थ-अनुबन्धः ।। ०९.७.१५ ।। उदासीनस्य दण्ड-अनुग्रहः फलेन अर्थो निरनुबन्धः ।। ०९.७.१६ ।। परस्यान्तर्-उच्छेदनं अर्थोअनर्थ-अनुबन्धः ।। ०९.७.१७ ।। शत्रु-प्रतिवेशस्यानुग्रहः कोश-दण्डाभ्यां अनर्थोअनर्थ-अनुबन्धः ।। ०९.७.१८ ।। हीन-शक्तिं उत्साह्य निवृत्तिरनर्थो निरनुबन्धः ।। ०९.७.१९ ।। ज्यायांसं उत्थाप्य निवृत्तिरनर्थोअनर्थ-अनुबन्धः ।। ०९.७.२० ।। तेषां पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुं ।। ०९.७.२१ ।। इति कार्य-अवस्थापनं ।। ०९.७.२२ ।। समन्ततो युगपद्-अर्थ-उत्पत्तिः समन्ततोअर्थ-आपद्भवति ।। ०९.७.२३ ।। साएव पार्ष्णि-ग्राह-विगृहीता समन्ततोअर्थ-संशय-आपद्भवति ।। ०९.७.२४ ।। तयोर्मित्र-आक्रन्द-उपग्रहात्सिद्धिः ।। ०९.७.२५ ।। समन्ततः शत्रुभ्यो भय-उत्पत्तिः समन्त्तोअनर्थ-आपद्भवति ।। ०९.७.२६ ।। साएव मित्र-विगृहीता समन्ततोअनर्थ-संशय-आपद्भवति ।। ०९.७.२७ ।। तयोश्चल-अमित्र-आक्रन्द-उपग्रहात्सिद्धिः । पर-मिश्र-अप्रतीकारो वा ।। ०९.७.२८ ।। इतो लाभ इतरतो लाभ इत्युभयतोअर्थ-आपद्भवति ।। ०९.७.२९ ।। तस्यां समन्ततोअर्थायां च लाभ-गुण-युक्तं अर्थं आदातुं यायात् ।। ०९.७.३० ।। तुल्ये लाभ-गुणे प्रधानं आसन्नं अनतिपातिनं ऊनो वा येन भवेत्तं आदातुं यायात् ।। ०९.७.३१ ।। इतोअनर्थ इतरतोअनर्थ इत्युभयतोअनर्थ-आपत् ।। ०९.७.३२ ।। तस्यां समन्ततोअनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत ।। ०९.७.३३ ।। मित्र-अभावे प्रकृतीनां लघीयस्यएकतोअनर्थां साधयेत् । उभयतोअनर्थां ज्यायस्या । समन्ततोअनर्थां मूलेन प्रतिकुर्यात् ।। ०९.७.३४ ।। अशक्ये सर्वं उत्सृज्यापगच्छेत् ।। ०९.७.३५ ।। दृष्टा हि जीवतः पुनर्-आवृत्तिर्यथा सुयात्रा-उदयनाभ्यां ।। ०९.७.३६ ।। इतो लाभ इतरतो राज्य-अभिमर्श इत्युभयतोअर्थ-अनर्थ-आपद्भवति ।। ०९.७.३७ ।। तस्यां अनर्थ-साधको योअर्थस्तं आदातुं यायात् ।। ०९.७.३८ ।। अन्यथा हि राज्य-अभिमर्शं वारयेत् ।। ०९.७.३९ ।। एतया समन्ततोअर्थ-अनर्थ-आपद्व्याख्याता ।। ०९.७.४० ।। इतोअनर्थ इतरतोअर्थ-संशय इत्युभयतोअनर्थ-अर्थ-संशया ।। ०९.७.४१ ।। तस्यां पूर्वं अनर्थं साधयेत् । तत्-सिद्धावर्थ-संशयं ।। ०९.७.४२ ।। एतया समन्ततोअनर्थ-अर्थ-संशया व्याख्याता ।। ०९.७.४३ ।। इतोअर्थ इतरतोअनर्थ-संशय इत्युभयतोअर्थ-अनर्थ-संशय-आपड ।। ०९.७.४४ ।। एतया समन्ततोअर्थ-अनर्थ-संशया व्याख्याता ।। ०९.७.४५ ।। तस्यां पूर्वां पूर्वां प्रकृतीनां अनर्थ-संशयान्मोक्षयितुं यतेत ।। ०९.७.४६ ।। श्रेयो हि मित्रं अनर्थ-संशये तिष्ठन्न दण्डः । दण्डो वा न कोश इति ।। ०९.७.४७ ।। समग्र-मोक्षण-अभावे प्रकृतीनां अवयवान्मोक्षयितुं यतेत ।। ०९.७.४८ ।। तत्र पुरुष-प्रकृतीनां बहुलं अनुरक्तं वा तीक्ष्ण-लुब्ध-वर्जम् । द्रव्य-प्रकृतीनां सारं महा-उपकारं वा ।। ०९.७.४९ ।। संधिनाआसनेन द्वैधी-भावेन वा लघूनि । विपर्ययैर्गुरूणि ।। ०९.७.५० ।। क्षय-स्थान-वृद्धीनां चौत्तर-उत्तरं लिप्सेत ।। ०९.७.५१ ।। प्रातिलोम्येन वा क्षय-आदीनां आयत्यां विशेषं पश्येत् ।। ०९.७.५२ ।। इति देश-अवस्थापनं ।। ०९.७.५३ ।। एतेन यात्रा-आदि-मध्य-अन्तेष्वर्थ-अनर्थ-संशयानां उपसम्प्राप्तिर्व्याख्याता ।। ०९.७.५४ ।। निरन्तर-योगित्वाच्चार्थ-अनर्थ-संशयानां यात्रा-आदावर्थः श्रेयानुपसम्प्राप्तुं पार्ष्णि-ग्राह-आसार-प्रतिघाते क्षय-व्यय-प्रवास-प्रत्यादेये मूल-रक्षणेषु च भवति ।। ०९.७.५५ ।। तथाअनर्थः संशयो वा स्व-भूमिष्ठस्य विषह्यो भवति ।। ०९.७.५६ ।। एतेन यात्रा-मध्येअर्थ-अनर्थ-संशयानां उपसम्प्राप्तिर्व्याख्याता ।। ०९.७.५७ ।। यात्रा-अन्ते तु कर्शनीयं उच्छेदनीयं वा कर्शयित्वाउच्छिद्य वाअर्थः श्रेयानुपसम्प्राप्तुं नानर्थः संशयो वा पर-आबाध-भयात् ।। ०९.७.५८ ।। सामवायिकानां अपुरोगस्य तु यात्रा-मध्य-अन्तगोअनर्थः संशयो वा श्रेयानुपसम्प्राप्तुं अनिर्बन्ध-गामित्वात् ।। ०९.७.५९ ।। अर्थो धर्मः काम इत्यर्थ-त्रि-वर्गः ।। ०९.७.६० ।। तस्य पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुं ।। ०९.७.६१ ।। अनर्थोअधर्मः शोक इत्यनर्थ-त्रि-वर्गः ।। ०९.७.६२ ।। तस्य पूर्वः पूर्वः श्रेयान्प्रतिकर्तुं ।। ०९.७.६३ ।। अर्थोअनर्थ इति । धर्मोअधर्म इति । कामः शोक इति संशय-त्रि-वर्गः ।। ०९.७.६४ ।। तस्यौत्तर-पक्ष-सिद्धौ पूर्व-पक्षः श्रेयानुपसम्प्राप्तुं ।। ०९.७.६५ ।। इति काल-अवस्थापनं ।। ०९.७.६६ ।। इत्यापदः तासां सिद्धिः ।। ०९.७.६७ ।। पुत्र-भ्रातृ-बन्धुषु साम-दानाभ्यां सिद्धिरनुरूपा । पौर-जानपद-दण्ड-मुख्येषु दान-भेदाभ्याम् । सामन्त-आटविकेषु भेद-दण्डाभ्यां ।। ०९.७.६८ ।। एषाअनुलोमा । विपर्यये प्रतिलोमा ।। ०९.७.६९ ।। मित्र-अमित्रेषु व्यामिश्रा सिद्धिः ।। ०९.७.७० ।। परस्पर-साधका ह्युपायाः ।। ०९.७.७१ ।। शत्रोः शङ्कित-अमात्येषु सान्त्वं प्रयुक्तं शेष-प्रयोगं निवर्तयति । दूष्य-अमात्येषु दानम् । संघातेषु भेदः । शक्तिमत्सु दण्ड इति ।। ०९.७.७२ ।। गुरु-लाघव-योगाच्चऽपदां नियोग-विकल्प-समुच्चया भवन्ति ।। ०९.७.७३ ।। "अनेनएवौपायेन नान्येन" इति नियोगः ।। ०९.७.७४ ।। "अनेन वाअन्येन वा" इति विकल्पः ।। ०९.७.७५ ।। "अनेनान्येन च" इति समुच्चयः ।। ०९.७.७६ ।। तेषां एक-योगाश्चत्वारस्त्रि-योगाश्च । द्वि-योगाः षट् । एकश्चतुर्-योगः ।। ०९.७.७७ ।। इति पञ्च-दश-उपायाः ।। ०९.७.७८ ।। तावन्तः प्रतिलोमाः ।। ०९.७.७९ ।। तेषां एकेनौपायेन सिद्धिरेक-सिद्धिः । द्वाभ्यां द्वि-सिद्धिः । त्रिभिस्त्रि-सिद्धिः । चतुर्भिश्चतुः-सिद्धिरिति ।। ०९.७.८० ।। धर्म-मूलत्वात्काम-फलत्वाच्चार्थस्य धर्म-अर्थ-काम-अनुबन्धा याअर्थस्य सिद्धिः सा सर्व-अर्थ-सिद्धिः <इति सिद्धयह्> ।। ०९.७.८१ ।। दैवादग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षं आसुरी सृष्टिरित्यापदः ।। ०९.७.८२ ।। तासां दैवत-ब्राह्मण-र्पणिपाततः सिद्धिः ।। ०९.७.८३ ।। अतिवृष्टिरवृष्टिर्वा सृष्टिर्वा याआसुरी भवेत् । ।। ०९.७.८४अ ब ।। तस्यां आथर्वणं कर्म सिद्ध-आरम्भाश्च सिद्धयः ।। ०९.७.८४च्द् ।।
✦ ✦ ✦
“Wealth productive of wealth; wealth productive of nothing; wealth productive of harm; loss…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.